अथर्ववेद - काण्ड 20/ सूक्त 25/ मन्त्र 4
आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया॑। सर्वं॑ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा॑वन्तं॒ गोम॑न्त॒मा प॒शुं नरः॑ ॥
स्वर सहित पद पाठआत् । अङ्गि॑रा: । प्र॒थ॒मम् । द॒धि॒रे॒ । वय॑: । इ॒द्धऽअ॑ग्नय: । शम्या॑ । ये । सु॒ऽकृ॒त्यया॑ ॥ सर्व॑म् । प॒णे: । सम् । अ॒वि॒न्द॒न्त॒ । भोज॑नम् । अश्व॑ऽवन्तम् । गोऽम॑न्तम् । आ । प॒शुम् । नर॑: ॥२५.४॥
स्वर रहित मन्त्र
आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया। सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥
स्वर रहित पद पाठआत् । अङ्गिरा: । प्रथमम् । दधिरे । वय: । इद्धऽअग्नय: । शम्या । ये । सुऽकृत्यया ॥ सर्वम् । पणे: । सम् । अविन्दन्त । भोजनम् । अश्वऽवन्तम् । गोऽमन्तम् । आ । पशुम् । नर: ॥२५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 25; मन्त्र » 4
Translation -
The men knowing, the science of fire and air who enkindle fire (of Yajna) through their good deeds first attain the vital power and then these leaders find wealth (Bhojana) enriched with horses, with cows and cattle which is the means of hoarding and trading.