Loading...
अथर्ववेद > काण्ड 20 > सूक्त 67

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 67/ मन्त्र 2
    सूक्त - परुच्छेपः देवता - मरुद्गणः छन्दः - अत्यष्टिः सूक्तम् - सूक्त-६७

    मो षु वो॑ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना॑ भूवन्द्यु॒म्नानि॒ मोत जा॑रिषुर॒स्मत्पु॒रोत जा॑रिषुः। यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम्। अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं॑ दिधृ॒ता यच्च॑ दु॒ष्टर॑म् ॥

    स्वर सहित पद पाठ

    मो इति॑ । सु । व॒: । अ॒स्मत् । अ॒भि । तानि॑ । पौंस्या॑ । सना॑ । भू॒व॒न् । द्यु॒म्नानि॑ । आ । उ॒त । जा॒रि॒षु॒: । अ॒स्मत् । पु॒रा । उ॒त । जा॒रि॒षु॒: ॥ यत् । व॒: । चि॒त्रम् । यु॒गेऽयु॑गे । नव्य॑म् । घोषा॑त् । अम॑र्त्यम् ॥ अ॒स्मासु॑ । तत् । म॒रु॒त॒: । यत् । च॒ । दु॒स्तर॑म् । दि॒धृत । यत् । च॒ । दु॒स्तर॑म् ॥६७.२॥


    स्वर रहित मन्त्र

    मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः। यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम्। अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥

    स्वर रहित पद पाठ

    मो इति । सु । व: । अस्मत् । अभि । तानि । पौंस्या । सना । भूवन् । द्युम्नानि । आ । उत । जारिषु: । अस्मत् । पुरा । उत । जारिषु: ॥ यत् । व: । चित्रम् । युगेऽयुगे । नव्यम् । घोषात् । अमर्त्यम् ॥ अस्मासु । तत् । मरुत: । यत् । च । दुस्तरम् । दिधृत । यत् । च । दुस्तरम् ॥६७.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 67; मन्त्र » 2

    Translation -
    O men of merits and actions, may your those endeavors and deeds which are for us grow ever from strength to strength; may not your splendid glories fall in to decay and never before time these may go in to decay; you give us whatever of yours is declared wondrous, new in all ages and surpassing the man and whatever is unattainable by ordinary man and is even difficult to win.

    इस भाष्य को एडिट करें
    Top