Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 95/ मन्त्र 1
त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं य॒थाव॑शत्। स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥
स्वर सहित पद पाठत्रिऽक॑द्रुकेषु । म॒हि॒ष: । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्म॑: । तृ॒षत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ॥ स: । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । स: । ए॒न॒म् । स॒श्च॒त् । दे॒व: । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्य: । इन्दु॑: ॥९५.१॥
स्वर रहित मन्त्र
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्। स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
स्वर रहित पद पाठत्रिऽकद्रुकेषु । महिष: । यवऽआशिरम् । तुविऽशुष्म: । तृषत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथा । अवशत् ॥ स: । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । स: । एनम् । सश्चत् । देव: । देवम् । सत्यम् । इन्द्रम् । सत्य: । इन्दु: ॥९५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 95; मन्त्र » 1
Translation -
The man of sharp understanding power who is great in attainments being satisfied in his three kinds of progresses (the physical, social and spiritual) drinks the Soma-juice mixed with barley pressed by a man of comprehensive knowledge (Vishnu) and as he desires this Soma-juice gladen the great man of long standing to perform the great deed and that man pious, truthful and possessor of wondrous powers attains the unity with this Almighty God who Himself is truthful.