अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 4
सूक्त - भृगुः
देवता - वरुणः, सिन्धुः, आपः
छन्दः - अनुष्टुप्
सूक्तम् - आपो देवता सूक्त
एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥
स्वर सहित पद पाठएक॑: । व॒: । दे॒व: । अपि॑ । अ॒ति॒ष्ठ॒त् । स्यन्द॑माना: । य॒था॒ऽव॒शम् । उत् । आ॒नि॒षु॒: । म॒ही: । इति॑ । तस्मा॑त् । उ॒द॒कम्: । उ॒च्य॒ते॒ ॥१३.४॥
स्वर रहित मन्त्र
एको वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम्। उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥
स्वर रहित पद पाठएक: । व: । देव: । अपि । अतिष्ठत् । स्यन्दमाना: । यथाऽवशम् । उत् । आनिषु: । मही: । इति । तस्मात् । उदकम्: । उच्यते ॥१३.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 4
Translation -
As one wonderful effulgent power, the Sun has its control over these naturally flowing waters and make them ascend on the regions above the earth, therefore these waters are called Udakam, the water which ascends upwards.