अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 3
समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद्वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥
स्वर सहित पद पाठसम् । ई॒क्ष॒य॒स्व॒ । गाय॑त: । नभां॑सि । अ॒पाम् । वेगा॑स: । पृथ॑क् । उत् । वि॒ज॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । वी॒रुध॑: । वि॒श्वऽरू॑पा: ॥१५.३॥
स्वर रहित मन्त्र
समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥
स्वर रहित पद पाठसम् । ईक्षयस्व । गायत: । नभांसि । अपाम् । वेगास: । पृथक् । उत् । विजन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । वीरुध: । विश्वऽरूपा: ॥१५.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 3
Translation -
Let the hosts of wind show the rainy-clouds to them who are singing in pleasure and let the rush of waters burst in many places. Let the floods of rain refresh the earth and let the herbs of various forms and colors separately grow in abundance.