अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 5
यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ। यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठयस्य॑ । जुष्टि॑म् । सो॒मिन॑: । का॒मय॑न्ते । यम् । हव॑न्ते । इषु॑ऽमन्तम् । गोऽइ॑ष्टौ । यस्मि॑न् । अ॒र्क: । शि॒श्रि॒ये । यस्मि॑न् । ओज॑: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.५॥
स्वर रहित मन्त्र
यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ। यस्मिन्नर्कः शिश्रिये यस्मिन्नोजः स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठयस्य । जुष्टिम् । सोमिन: । कामयन्ते । यम् । हवन्ते । इषुऽमन्तम् । गोऽइष्टौ । यस्मिन् । अर्क: । शिश्रिये । यस्मिन् । ओज: । स: । न: । मुञ्चतु । अंहस: ॥२४.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 5
Translation -
It is Indra whose favorable benefit the men of learning desire, to which lightning possessor highly praise and where in is contained light and where in is contained the power. Let it be the source of driving away grief and troubles from us.