अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 1
सूक्त - मृगारः
देवता - वायु, सविता
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्वद्वि॒शथो॒ यौ च॒ रक्ष॑थः। यौ विश्व॑स्य परि॒भू ब॑भू॒वथु॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठवा॒यो: । स॒वि॒तु: । वि॒दथा॑नि । म॒न्म॒हे॒ । यौ । आ॒त्म॒न्ऽवत् । वि॒शथ॑: । यौ । च॒ । रक्ष॑थ: । यौ । विश्व॑स्य । प॒रि॒भू इति॑ प॒रि॒ऽभू । ब॒भू॒वथु॑: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.१॥
स्वर रहित मन्त्र
वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः। यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठवायो: । सवितु: । विदथानि । मन्महे । यौ । आत्मन्ऽवत् । विशथ: । यौ । च । रक्षथ: । यौ । विश्वस्य । परिभू इति परिऽभू । बभूवथु: । तौ । न: । मुञ्चतम् । अंहस: ॥२५.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 1
Translation -
Think over the properties and operations of the air and sun which penetrate and guard the living world and which become the pervader of all. Let these two become the source of saving us from grief and troubles.