अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 13
सूक्त - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - तक्मनाशन सूक्त
तृती॑यकं वितृती॒यं स॑द॒न्दिमु॒त शा॑र॒दम्। त॒क्मानं॑ शी॒तं रू॒रं ग्रैष्मं॑ नाशय॒ वार्षि॑कम् ॥
स्वर सहित पद पाठतृती॑यकम् । वि॒ऽतृ॒ती॒यम् । स॒द॒म्ऽदिम् । उ॒त । शा॒र॒दम् । त॒क्मान॑म् । शी॒तम् । रू॒रम् । ग्रैष्म॑म् । ना॒श॒य॒ । वार्षि॑कम् ॥२२.१३॥
स्वर रहित मन्त्र
तृतीयकं वितृतीयं सदन्दिमुत शारदम्। तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥
स्वर रहित पद पाठतृतीयकम् । विऽतृतीयम् । सदम्ऽदिम् । उत । शारदम् । तक्मानम् । शीतम् । रूरम् । ग्रैष्मम् । नाशय । वार्षिकम् ॥२२.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 13
Translation -
O physician! destroy the fevers of the Kinds-intermittent fever; that which leaves after two days; continuous fever; that which emerges in the autumn; cold and hot fevers; that which comes in the summer season and the rainy fever.