अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 4
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय वावृधा॒नः। इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्ये॑णा॒स्मिन्त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ॥
स्वर सहित पद पाठइ॒मम् । आ॒दि॒त्या॒: । वसु॑ना । सम् । उ॒क्ष॒त॒ । इ॒मम् । अ॒ग्ने॒ । वर्ध॒य॒ । व॒वृ॒धा॒न:। इ॒मम् । इ॒न्द्र॒ । सम् । सृ॒ज॒ । वी॒र्ये᳡ण । अ॒स्मिन् । त्रि॒ऽवृत् । श्र॒य॒ता॒म् । पो॒ष॒यि॒ष्णु ॥२८.४॥
स्वर रहित मन्त्र
इममादित्या वसुना समुक्षतेममग्ने वर्धय वावृधानः। इममिन्द्र सं सृज वीर्येणास्मिन्त्रिवृच्छ्रयतां पोषयिष्णु ॥
स्वर रहित पद पाठइमम् । आदित्या: । वसुना । सम् । उक्षत । इमम् । अग्ने । वर्धय । ववृधान:। इमम् । इन्द्र । सम् । सृज । वीर्येण । अस्मिन् । त्रिऽवृत् । श्रयताम् । पोषयिष्णु ॥२८.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 4
Translation -
Let the twelve months of year enrich this triple with wealth, let fire increase this triple strengthening itself, let powerful electricity invigorate it with strength and vigour, let the trio of fostering powers remain in it.