Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 124/ मन्त्र 3
सूक्त - अथर्वा
देवता - दिव्या आपः
छन्दः - त्रिष्टुप्
सूक्तम् - निर्ऋत्यपस्तरण सूक्त
अ॒भ्यञ्ज॑नं सुर॒भि सा समृ॑द्धि॒र्हिर॑ण्यं॒ वर्च॒स्तदु॑ पू॒त्रिम॑मे॒व। सर्वा॑ प॒वित्रा॒ वित॒ताध्य॒स्मत्तन्मा ता॑री॒न्निरृ॑ति॒र्मो अरा॑तिः ॥
स्वर सहित पद पाठअ॒भि॒ऽअञ्ज॑नम् । सु॒र॒भि । सा । सम्ऽऋ॑ध्दि: । हिर॑ण्यम् । वर्च॑: । तत् । ऊं॒ इति॑ । पू॒त्रिम॑म् । ए॒व । सर्वा॑ । प॒वित्रा॑ । विऽत॑ता । अधि॑ । अ॒स्मत् । तत्। मा । ता॒री॒त् । नि:ऽऋ॑ति: । मो इति॑ । अरा॑ति: ॥१२४.३॥
स्वर रहित मन्त्र
अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव। सर्वा पवित्रा वितताध्यस्मत्तन्मा तारीन्निरृतिर्मो अरातिः ॥
स्वर रहित पद पाठअभिऽअञ्जनम् । सुरभि । सा । सम्ऽऋध्दि: । हिरण्यम् । वर्च: । तत् । ऊं इति । पूत्रिमम् । एव । सर्वा । पवित्रा । विऽतता । अधि । अस्मत् । तत्। मा । तारीत् । नि:ऽऋति: । मो इति । अराति: ॥१२४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 124; मन्त्र » 3
Translation -
It is a fragrant ointment, it is happy fortune, it is splendorous vigor and it is purified from all impurities. All these purifying substances are scattered in this world. Let not any impurity come to us and let not any malignity sub-due us.