अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 2
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - सौभाग्यवर्धन सूक्त
शुष्य॑तु॒ मयि॑ ते॒ हृद॑य॒मथो॑ शुष्यत्वा॒स्यम्। अथो॒ नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर ॥
स्वर सहित पद पाठशुष्य॑तु । मयि॑ । ते॒ । हृद॑यम् । अथो॒ इति॑ । शु॒ष्य॒तु॒ । आ॒स्य᳡म् । अथो॒ इति॑ । नि । शु॒ष्य॒ । माम् । कामे॑न । अथो॒ इति॑ । शुष्क॑ऽआस्या । च॒र॒ ॥१३९.२॥
स्वर रहित मन्त्र
शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम्। अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥
स्वर रहित पद पाठशुष्यतु । मयि । ते । हृदयम् । अथो इति । शुष्यतु । आस्यम् । अथो इति । नि । शुष्य । माम् । कामेन । अथो इति । शुष्कऽआस्या । चर ॥१३९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 2
Translation -
O wife! let your heart which lies in me be dry, let your mouth wither in my love, parch and dry up with longing and go with lips which dried in my love.