Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 140/ मन्त्र 2
सूक्त - अथर्वा
देवता - ब्रह्मणस्पतिः
छन्दः - उपरिष्टाज्ज्योतिष्मती त्रिष्टुप्
सूक्तम् - सुमङ्गलदन्त सूक्त
व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्। ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥
स्वर सहित पद पाठव्री॒हिम् । अ॒त्त॒म् । यव॑म् । अ॒त्त॒म् । अथो॒ इति॑ । माष॑म् । अथो॒ इति॑ । तिल॑म् । ए॒ष: । वा॒म् । भा॒ग: । निऽहि॑त: । र॒त्न॒ऽधेया॑य । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म्। मा॒तर॑म् । च॒ ॥१४०.२॥
स्वर रहित मन्त्र
व्रीहिमत्तं यवमत्तमथो माषमथो तिलम्। एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥
स्वर रहित पद पाठव्रीहिम् । अत्तम् । यवम् । अत्तम् । अथो इति । माषम् । अथो इति । तिलम् । एष: । वाम् । भाग: । निऽहित: । रत्नऽधेयाय । दन्तौ । मा । हिंसिष्टम् । पितरम्। मातरम् । च ॥१४०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 140; मन्त्र » 2
Translation -
Let both of these teeth eat rice, let them eat barley, let them eat beans and sesamum, this share allotted to be their Portion and let not them harm father and mother.