अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 13
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - चतुष्पदा साम्नी जगती
सूक्तम् - विराट् सूक्त
सोद॑क्राम॒त्सा स॒र्पानाग॑च्छ॒त्तां स॒र्पा उपा॑ह्वयन्त॒ विष॑व॒त्येहीति॑।
स्वर सहित पद पाठसा । उत् । अ॒क्रा॒म॒त् । सा । स॒र्पान् । आ । अ॒ग॒च्छ॒त् । ताम् । स॒र्पा: । उप॑ । अ॒ह्व॒य॒न्त॒ । विष॑ऽवति । आ । इ॒हि॒ । इति॑ ॥१४.१३॥
स्वर रहित मन्त्र
सोदक्रामत्सा सर्पानागच्छत्तां सर्पा उपाह्वयन्त विषवत्येहीति।
स्वर रहित पद पाठसा । उत् । अक्रामत् । सा । सर्पान् । आ । अगच्छत् । ताम् । सर्पा: । उप । अह्वयन्त । विषऽवति । आ । इहि । इति ॥१४.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 13
Translation -
This Virat mounted up and this approached the venomous reptile. They Cried ‘Come Venomous! Come hither.