अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - जगती
सूक्तम् - आत्मा सूक्त
इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑। अ॒यं य॒ज्ञो विश्व॑स्य॒ भुव॑नस्य॒ नाभि॑र्ब्र॒ह्मायं वा॒चः प॑र॒मं व्योम ॥
स्वर सहित पद पाठइ॒यम् । वेदि॑: । पर॑: । अन्त॑: । पृ॒थि॒व्या: । अ॒यम् । सोम॑: । वृष्ण॑: । अश्व॑स्य । रेत॑: । अ॒यम् । य॒ज्ञ: । विश्व॑स्य । भुव॑नस्य । नाभि॑: । ब्र॒ह्मा । अ॒यम् । वा॒च: । प॒र॒मम् । विऽओ॑म ॥१५.१४॥
स्वर रहित मन्त्र
इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः। अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥
स्वर रहित पद पाठइयम् । वेदि: । पर: । अन्त: । पृथिव्या: । अयम् । सोम: । वृष्ण: । अश्वस्य । रेत: । अयम् । यज्ञ: । विश्वस्य । भुवनस्य । नाभि: । ब्रह्मा । अयम् । वाच: । परमम् । विऽओम ॥१५.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 14
Translation -
Take to yourself, O disciple ! the Yajna Vedi is the centre of the globe it is round, this electricity is the power of mighty fire, this Yajna, the integrating disintegrating and worshipable God is the centre of the universe and the chief priest of Yajna or Brahman, the Supreme Being or the Vast space is the broad source of speech.