अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 5
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्। व्य॒१॒॑न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
स्वर सहित पद पाठप्र । वि॒श॒त॒म् । प्रा॒णा॒पा॒नौ॒ । अ॒न॒ड्वाहौ॑ऽइव । व्र॒जम् । वि । अ॒न्ये । य॒न्तु॒ । मृ॒त्यव॑: । यान् । आ॒हु: । इत॑रान् । श॒तम् ॥११.५॥
स्वर रहित मन्त्र
प्र विशतं प्राणापानावनड्वाहाविव व्रजम्। व्यन्ये यन्तु मृत्यवो यानाहुरितरान्छतम् ॥
स्वर रहित पद पाठप्र । विशतम् । प्राणापानौ । अनड्वाहौऽइव । व्रजम् । वि । अन्ये । यन्तु । मृत्यव: । यान् । आहु: । इतरान् । शतम् ॥११.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 5
भाषार्थ -
(प्राणापानौ) हे प्राण और अपान! (प्र विशतम्) तुम दोनों रोगी में प्रवेश करो, (इव) जैसेकि (अनड्वाहौ) शकटवाहन में समर्थ दो बैल (व्रजम्) गोशाला में प्रविष्ट होते हैं। (अन्ये) अन्य (मृत्यवः) मृत्यु (वि यन्तु) विगत हो जाएँ (यान् आहुः) जिन्हें कहते हैं, (इतरान् शतम्) उससे भिन्न सौ।
टिप्पणी -
[भिन्न= यक्ष्म रोग से भिन्न रोग। शतम्= सौ वर्षों की आयु में व्यापी अन्य रोग।]