अथर्ववेद - काण्ड 3/ सूक्त 19/ मन्त्र 3
सूक्त - वसिष्ठः
देवता - विश्वेदेवाः, चन्द्रमाः, इन्द्रः
छन्दः - भुरिग्बृहती
सूक्तम् - अजरक्षत्र
नी॒चैः प॑द्यन्ता॒मध॑रे भवन्तु॒ ये नः॑ सू॒रिं म॒घवा॑नं पृत॒न्यान्। क्षि॒णामि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वान॒हम् ॥
स्वर सहित पद पाठनी॒चै: । प॒द्य॒न्ता॒म् । अध॑रे । भ॒व॒न्तु॒ । ये । न॒: । सू॒रिम् । म॒घऽवा॑नम् । पृ॒त॒न्यान् । क्षि॒णामि॑ । ब्रह्म॑णा । अ॒मित्रा॑न् । उत् । न॒या॒मि॒ । स्वान् । अ॒हम् ॥१९.३॥
स्वर रहित मन्त्र
नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान्। क्षिणामि ब्रह्मणामित्रानुन्नयामि स्वानहम् ॥
स्वर रहित पद पाठनीचै: । पद्यन्ताम् । अधरे । भवन्तु । ये । न: । सूरिम् । मघऽवानम् । पृतन्यान् । क्षिणामि । ब्रह्मणा । अमित्रान् । उत् । नयामि । स्वान् । अहम् ॥१९.३॥
अथर्ववेद - काण्ड » 3; सूक्त » 19; मन्त्र » 3
भाषार्थ -
(नीचैः पद्यन्ताम्) हम से नीचे हो जाएँ, (अधरे भवन्तु) निकृष्ट अर्थात् पादाक्रान्त हो जाएँ, (ये) जो कि (न:) हमारे (मघवानम्) धनिक (सूरिम्) और प्रेरक राजा को (पृतन्यान्) पृतना अर्थात् सेना द्वारा आक्रान्त करते हैं। (ब्रह्मणा) वेदोक्त विधि द्वारा (अमित्रान्) शत्रुओं को (क्षिणामि) मैं क्षीण करता हूँ और (स्वान्) अपनों को (अहम्) मैं (उन्नयामि) उन्नत करता हूँ।
टिप्पणी -
[सूरिम्=षू प्रेरणे (तुदादि:)।]