Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 47/ मन्त्र 2
सूक्त - प्रचेता
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः। आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥
स्वर सहित पद पाठविश्वे॑ । दे॒वा:। म॒रुत॑: । इन्द्र॑: । अ॒स्मान् । अ॒स्मिन् । द्वि॒तीये॑ । सव॑ने ।न । ज॒ह्यु॒: । आयु॑ष्मन्त: । प्रि॒यम् । ए॒षा॒म् । वद॑न्त: । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥४७.२॥
स्वर रहित मन्त्र
विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः। आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥
स्वर रहित पद पाठविश्वे । देवा:। मरुत: । इन्द्र: । अस्मान् । अस्मिन् । द्वितीये । सवने ।न । जह्यु: । आयुष्मन्त: । प्रियम् । एषाम् । वदन्त: । वयम् । देवानाम् । सुऽमतौ । स्याम ॥४७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 47; मन्त्र » 2
भाषार्थ -
(विश्वे देवाः) सब इन्द्रियां, (मरुतः) प्राण, (इन्द्रः) आत्मा (अस्मिन् द्वितीये सवने) इस ४४ वर्षों के द्वितीय सवन अर्थात् रुद्र कोटि के ब्रह्मचर्य काल में (अस्मान्) हमें (न जह्यु:) न त्यागें, अर्थात् यथावत् हमारे शरीरों में विद्यमान रहें। (आयुष्मन्तः) ताकि दीर्घायु से सम्पन्न हम (एषाम्) इन विश्वेदेव आदि के होते, (प्रियम्) परस्पर प्रेमयुक्त वाणी (वदन्तः) बोलते हुए (वयम्) हम (देवानाम्) गुरुदेवों की (सुमतौ) सुमति में (स्याम) हों, रहें।
टिप्पणी -
[प्रथम कोटि के ब्रह्मचारियों की संज्ञा है "वसु", द्वितीय कोटि के ब्रह्मचारियों की संज्ञा है "रुद्र"; (छान्दोग्य उपनिषद्, सन्दर्भ १३)। एषाम् ="एषाम् सताम्" इन के विद्यमान रहते]।