अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - त्रिपदा पिपीलिकमध्या गायत्री
सूक्तम् - अतिथि सत्कार
इ॒ष्टं च॒ वा ए॒ष पू॒र्तं च॑ गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ॥
स्वर सहित पद पाठइ॒ष्टम् । च॒ । वै । ए॒ष: । पू॒र्तम् । च॒ । गृ॒हाणा॑म् । अ॒श्ना॒ति॒ । य: । पूर्व॑: । अति॑थे: । अ॒श्नाति॑ ॥८.१॥
स्वर रहित मन्त्र
इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥
स्वर रहित पद पाठइष्टम् । च । वै । एष: । पूर्तम् । च । गृहाणाम् । अश्नाति । य: । पूर्व: । अतिथे: । अश्नाति ॥८.१॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 3;
मन्त्र » 1
भाषार्थ -
(यः) जो अतिथिपति (अतिथेः) अतिथि से (पूर्वः) पहले (अश्नाति) खा लेता है (वै) निश्चय से (एषः) यह (गृहाणाम्) गृहवासियों के (इष्टम् च) यज्ञों और (पूर्तम् च) सामाजिक दानों को (अश्नाति) खाता है, उन्हें विनष्ट करता है।
टिप्पणी -
[इष्टम् = अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम्। आतिथ्यं वैश्वदेवश्व इष्टमित्यभिधीयते ॥ पूर्तम् = वापी कूपतडागादि देवतायतनानि च। अन्नप्रदानमारामः, पूर्तमित्यभिधीयते।।]