अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 6
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
अ॒जम॑नज्मि॒ पय॑सा घृ॒तेन॑ दि॒व्यं सु॑प॒र्णं प॑य॒सं बृ॒हन्त॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्व॑रा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ॥
स्वर सहित पद पाठअ॒जम् । अ॒न॒ज्मि॒ । पय॑सा । घृ॒तेन॑ । दि॒व्यम् । सु॒ऽप॒र्णम् । प॒य॒सम् । बृ॒हन्त॑म् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । स्व᳡: । आ॒ऽरोह॑न्त: । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् ॥१४.६॥
स्वर रहित मन्त्र
अजमनज्मि पयसा घृतेन दिव्यं सुपर्णं पयसं बृहन्तम्। तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥
स्वर रहित पद पाठअजम् । अनज्मि । पयसा । घृतेन । दिव्यम् । सुऽपर्णम् । पयसम् । बृहन्तम् । तेन । गेष्म । सुऽकृतस्य । लोकम् । स्व: । आऽरोहन्त: । अभि । नाकम् । उत्ऽतमम् ॥१४.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 6
Translation -
I equip with Knowledge and luster, the divine, virtuous, enterprising, powerful unborn soul. With the help of that learned soul, keeping in view the Exalted Joyous God, may we, advancing spiritually seek for salvation, the abode of purity.