अथर्ववेद - काण्ड 4/ सूक्त 18/ मन्त्र 5
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
अ॒नया॒हमोष॑ध्या॒ सर्वाः॑ कृ॒त्या अ॑दूदुषम्। यां क्षेत्रे॑ च॒क्रुर्यां गोषु॒ यां वा॑ ते॒ पुरु॑षेषु ॥
स्वर सहित पद पाठअ॒नया॑ । अ॒हम् । ओष॑ध्या । सर्वा॑: । कृ॒त्या: । अ॒दू॒दु॒ष॒म् । याम् । क्षेत्रे॑ । च॒क्रु: । याम् । गोषु॑ । याम् । वा॒ । ते॒ । पुरु॑षेषु ॥१८.५॥
स्वर रहित मन्त्र
अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्। यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥
स्वर रहित पद पाठअनया । अहम् । ओषध्या । सर्वा: । कृत्या: । अदूदुषम् । याम् । क्षेत्रे । चक्रु: । याम् । गोषु । याम् । वा । ते । पुरुषेषु ॥१८.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 18; मन्त्र » 5
Translation -
With the help of thine, O King, who assuages sufferings like medicine, I have removedall sorts of violence, they committed upon thy field, thy cattle and thy men.
Footnote -
They: Ill-natured persons. I: A learned person.