अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 2
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
एमं भ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॒ निष्टं भ॑ज॒ यो अ॒मित्रो॑ अ॒स्य। वर्ष्म॑ क्ष॒त्राणा॑म॒यम॑स्तु॒ राजेन्द्र॒ शत्रुं॑ रन्धय॒ सर्व॑म॒स्मै ॥
स्वर सहित पद पाठआ । इ॒मम् । भ॒ज॒ । ग्रामे॑ । अश्वे॑षु । गोषु॑ । नि: । तम् । भ॒ज॒ । य: । अ॒मित्र॑: । अ॒स्य । वर्ष्म॑ । क्ष॒त्राणा॑म् । अ॒यम् । अ॒स्तु॒ । राजा॑ । इन्द्र॑ । शत्रु॑म् । र॒न्ध॒य॒ । सर्व॑म् । अ॒स्मै ॥२२.२॥
स्वर रहित मन्त्र
एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य। वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥
स्वर रहित पद पाठआ । इमम् । भज । ग्रामे । अश्वेषु । गोषु । नि: । तम् । भज । य: । अमित्र: । अस्य । वर्ष्म । क्षत्राणाम् । अयम् । अस्तु । राजा । इन्द्र । शत्रुम् । रन्धय । सर्वम् । अस्मै ॥२२.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 2
Translation -
Give him a share in villages, kine and horses, and leave his enemy without a portion. Let him as king be head and chief of princes. O God, let every foeman surrender to him.
Footnote -
‘Him’ refers to a king.