Loading...
अथर्ववेद > काण्ड 4 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 8/ मन्त्र 1
    सूक्त - अथर्वाङ्गिराः देवता - चन्द्रमाः, आपः, राज्याभिषेकः छन्दः - भुरिगनुष्टुप् सूक्तम् - राज्यभिषेक सूक्त

    भू॒तो भू॒तेषु॒ पय॒ आ द॑धाति॒ स भू॒ताना॒मधि॑पतिर्बभूव। तस्य॑ मृ॒त्युश्च॑रति राज॒सूयं॒ स राजा॒ रा॒ज्यमनु॑ मन्यतामि॒दम् ॥

    स्वर सहित पद पाठ

    भू॒त: । भू॒तेषु॑ । पय॑: । आ । द॒धा॒ति॒ । स: । भू॒ताना॑म् । अधि॑ऽपति: । ब॒भू॒व॒ । तस्य॑ । मृ॒त्यु: । च॒र॒ति॒ । रा॒ज॒ऽसूय॑म् । स: । राजा॑ । रा॒ज्यम् । अनु॑ । म॒न्य॒ता॒म् । इदम् ॥८.१॥


    स्वर रहित मन्त्र

    भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव। तस्य मृत्युश्चरति राजसूयं स राजा राज्यमनु मन्यतामिदम् ॥

    स्वर रहित पद पाठ

    भूत: । भूतेषु । पय: । आ । दधाति । स: । भूतानाम् । अधिऽपति: । बभूव । तस्य । मृत्यु: । चरति । राजऽसूयम् । स: । राजा । राज्यम् । अनु । मन्यताम् । इदम् ॥८.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 8; मन्त्र » 1

    Translation -
    He who is strong and establishes his authority over others, becomes the supreme ruler of men. Death becomes subservient to his rule. Let him as king rule and allow this kingdom.

    इस भाष्य को एडिट करें
    Top