Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 15/ मन्त्र 1
तां स॑वितः स॒त्यस॑वां सुचि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्ववा॑राम्। याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नां स॒हस्र॑धारां महि॒षो भगा॑य ॥
स्वर सहित पद पाठताम् । स॒वि॒त॒: । स॒त्यऽस॑वाम् । सु॒ऽचि॒त्राम् । आ । अ॒हम् । वृ॒णे॒ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राम् । याम् । अ॒स्य॒ । कण्व॑: । अदु॑हत् । प्रऽपी॑नाम् । स॒हस्र॑ऽधाराम् । म॒हि॒ष: । भगा॑य ॥१६.१॥
स्वर रहित मन्त्र
तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम्। यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥
स्वर रहित पद पाठताम् । सवित: । सत्यऽसवाम् । सुऽचित्राम् । आ । अहम् । वृणे । सुऽमतिम् । विश्वऽवाराम् । याम् । अस्य । कण्व: । अदुहत् । प्रऽपीनाम् । सहस्रऽधाराम् । महिष: । भगाय ॥१६.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 15; मन्त्र » 1
Translation -
O God, I crave for the fine intellect, that urges one to Truth, is wonderful, acceptable to all, highly developed, and master of a thousand subjects. A mighty learned person acquires such an intellect for his welfare!
Footnote -
See Yajur, 17-74.