ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 37
ऋषिः - सोभरिः काण्वः
देवता - त्रसदस्योर्दानस्तुतिः
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
उ॒त मे॑ प्र॒यियो॑र्व॒यियो॑: सु॒वास्त्वा॒ अधि॒ तुग्व॑नि । ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पति॑: ॥
स्वर सहित पद पाठउ॒त । मे॒ । प्र॒यियोः॑ । व॒यियोः॑ । सु॒ऽवास्त्वाः॑ । अधि॑ । तुग्व॑नि । ति॒सॄ॒णाम् । स॒प्त॒ती॒नाम् । श्या॒वः । प्र॒ऽने॒ता । भु॒व॒त् । वसुः॑ । दिया॑नाम् । पतिः॑ ॥
स्वर रहित मन्त्र
उत मे प्रयियोर्वयियो: सुवास्त्वा अधि तुग्वनि । तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पति: ॥
स्वर रहित पद पाठउत । मे । प्रयियोः । वयियोः । सुऽवास्त्वाः । अधि । तुग्वनि । तिसॄणाम् । सप्ततीनाम् । श्यावः । प्रऽनेता । भुवत् । वसुः । दियानाम् । पतिः ॥ ८.१९.३७
ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 37
अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 7
अष्टक » 6; अध्याय » 1; वर्ग » 35; मन्त्र » 7
विषयः - पुनस्तदेव दर्शयति ।
पदार्थः -
सप्ततीनाम्=सर्पणशीलानां सदागतीनाम् । तिसॄणाम्=तिसॄणां जगतीनाम् । पतिः=पालकः । पुनः । दियानाम्=दातॄणाञ्च पालकः । श्यावः=सर्वगतः परमात्मा । उत=अपि च । प्रयियोः=प्रयातुः । वयियोः=सदाकर्मासक्तस्य । मे=मम । सुवास्त्वाः=सुक्रियायाः । तुग्वनि+अधि=समाप्तौ । प्रणेता=प्रेरकः । वसुः=वासकश्च । भुवत्=भवतु ॥३७ ॥