ऋग्वेद - मण्डल 8/ सूक्त 21/ मन्त्र 2
ऋषिः - सोभरिः काण्वः
देवता - इन्द्र:
छन्दः - पादनिचृत्पङ्क्ति
स्वरः - पञ्चमः
उप॑ त्वा॒ कर्म॑न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् । त्वामिद्ध्य॑वि॒तारं॑ ववृ॒महे॒ सखा॑य इन्द्र सान॒सिम् ॥
स्वर सहित पद पाठउप॑ । त्वा॒ । कर्म॑न् । ऊ॒तये॑ । सः । नः॒ । युवा॑ । उ॒ग्रः । च॒का॒म॒ । यः । धृ॒षत् । त्वाम् । इत् । हि । अ॒वि॒तार॑म् । व॒वृ॒महे॑ । सखा॑यः । इ॒न्द्र॒ । सा॒न॒सिम् ॥
स्वर रहित मन्त्र
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् । त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥
स्वर रहित पद पाठउप । त्वा । कर्मन् । ऊतये । सः । नः । युवा । उग्रः । चकाम । यः । धृषत् । त्वाम् । इत् । हि । अवितारम् । ववृमहे । सखायः । इन्द्र । सानसिम् ॥ ८.२१.२
ऋग्वेद - मण्डल » 8; सूक्त » 21; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 2
विषयः - स एवाश्रयणीय इति दर्शयति ।
पदार्थः -
हे इन्द्र ! ऊतये=रक्षणाय । कर्मन्=कर्मणि कर्मणि । त्वा=त्वामुपाश्रयामः । य इन्द्रः । धृषत्=धृष्णोति=विघ्नान् अभिभवति । पुनः । युवा=मिश्रणकारी । यद्वा । सदैकरसः । पुनः । उग्रः । सः । नः=अस्मान् । चक्राम=आगच्छतु । यद्वा । चक्राम=अस्मान् उत्साहयुक्तान् करोतु । अवितारम्=रक्षितारम् । सानसिम्=संभजनीयम् । त्वामित्=त्वामेव । सखायः= वयम्=ववृमहे=वृणीमहे । हि=प्रसिद्धौ ॥२ ॥