Loading...
ऋग्वेद मण्डल - 8 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 21/ मन्त्र 3
    ऋषिः - सोभरिः काण्वः देवता - इन्द्र: छन्दः - विराडुष्निक् स्वरः - ऋषभः

    आ या॑ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते । सोमं॑ सोमपते पिब ॥

    स्वर सहित पद पाठ

    आ । या॒हि॒ । इ॒मे । इन्द॑वः । अश्व॑ऽपते । गोऽप॑ते । उर्व॑राऽपते । सोम॑म् । सो॒म॒ऽप॒ते॒ । पि॒ब॒ ॥


    स्वर रहित मन्त्र

    आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते । सोमं सोमपते पिब ॥

    स्वर रहित पद पाठ

    आ । याहि । इमे । इन्दवः । अश्वऽपते । गोऽपते । उर्वराऽपते । सोमम् । सोमऽपते । पिब ॥ ८.२१.३

    ऋग्वेद - मण्डल » 8; सूक्त » 21; मन्त्र » 3
    अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 3

    पदार्थः -
    हे अश्वपते ! हे गोपते ! हे उर्वरापते ! सर्वसस्याढ्या भूमिरुर्वरा । हे सोमपते=सोमानां सोमलतादीनां स्वामिन् । इमे+इन्दवः=इमे दृश्यमानाः सोमादिपदार्थास्तवैव सन्ति । तानायाहि । सोमम्= सोमादि वस्तु । पिब=रक्ष ॥३ ॥

    इस भाष्य को एडिट करें
    Top