ऋग्वेद - मण्डल 8/ सूक्त 21/ मन्त्र 4
व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा॑स इन्द्र येमि॒म । या ते॒ धामा॑नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे॑भि॒: सोम॑पीतये ॥
स्वर सहित पद पाठव॒यम् । हि । त्वा॒ । बन्धु॑ऽमन्तम् । अ॒ब॒न्धवः॑ । विप्रा॑सः । इ॒न्द्र॒ । ये॒मि॒म । या । ते॒ । धामा॑नि । वृ॒ष॒भ॒ । तेभिः॑ । आ । ग॒हि॒ । विश्वे॑भिः । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम । या ते धामानि वृषभ तेभिरा गहि विश्वेभि: सोमपीतये ॥
स्वर रहित पद पाठवयम् । हि । त्वा । बन्धुऽमन्तम् । अबन्धवः । विप्रासः । इन्द्र । येमिम । या । ते । धामानि । वृषभ । तेभिः । आ । गहि । विश्वेभिः । सोमऽपीतये ॥ ८.२१.४
ऋग्वेद - मण्डल » 8; सूक्त » 21; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 1; मन्त्र » 4
विषयः - स एव स्तवनीय इति दर्शयति ।
पदार्थः -
हे इन्द्र ! अबन्धवः=बन्धुरहिताः । विप्रासः=मेधाविनः । वयं हि । बन्धुमन्तम्=जगद्बन्धुसमेतम् । त्वा=त्वामेव । येमिम=आश्रयामः । हे वृषभ ! ते=तव । या=यानि । धामानि=जगन्ति सन्ति । तेभिर्विश्वेभिः सह । सोमपीतये । आगहि=आगच्छ ॥४ ॥