ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 27
य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु । वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥
स्वर सहित पद पाठयः । ऋक्षा॑त् । अंह॑सः । मु॒चत् । यः । वा॒ । आर्या॑त् । स॒प्त । सिन्धु॑षु । वधः॑ । दा॒सस्य॑ । तु॒वि॒ऽनृ॒म्ण॒ । नी॒न॒मः॒ ॥
स्वर रहित मन्त्र
य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु । वधर्दासस्य तुविनृम्ण नीनमः ॥
स्वर रहित पद पाठयः । ऋक्षात् । अंहसः । मुचत् । यः । वा । आर्यात् । सप्त । सिन्धुषु । वधः । दासस्य । तुविऽनृम्ण । नीनमः ॥ ८.२४.२७
ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 27
अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 2
विषयः - विघ्नविनाशाय पुनः प्रार्थना ।
पदार्थः -
य इन्द्रः । अस्मान् । ऋक्षात्=घातकात्=ऋक्षपशुवद् भयानकात् । अंहसः=पापात् । मुचत्=मुञ्चति यः । सप्तसिन्धुषु=सर्पणशीलासु नदीषु । वा=यद्वा । आर्य्यात्=धनं प्रेरयति । यद्वा । सप्तसिन्धुषु=शिरःसु । विज्ञानं प्रेरयति । हे तुविनृम्ण=बहुधनेन्द्र ! दासस्य=उपक्षपितुर्जनस्य बधाय । बध=हननसाधकमायुधम् । नीनमः=नमय ॥२७ ॥