ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 28
ऋषिः - विश्वमना वैयश्वः
देवता - वरोः सौषाम्णस्य दानस्तुतिः
छन्दः - विराडुष्निक्
स्वरः - ऋषभः
यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम् । व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥
स्वर सहित पद पाठयथा॑ । व॒रो॒ इति॑ । सु॒ऽसाम्णे॑ । स॒निऽभ्यः॑ । आ । अव॑हः । र॒यिम् । विऽअ॑श्वेभ्यः । सु॒ऽभ॒गे॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥
स्वर रहित मन्त्र
यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् । व्यश्वेभ्यः सुभगे वाजिनीवति ॥
स्वर रहित पद पाठयथा । वरो इति । सुऽसाम्णे । सनिऽभ्यः । आ । अवहः । रयिम् । विऽअश्वेभ्यः । सुऽभगे । वाजिनीऽवति ॥ ८.२४.२८
ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 28
अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 3
विषयः - इन्द्रियाणि जेतव्यानीति दर्शयति ।
पदार्थः -
हे वरो=वरणीय परमदेव ! यथा त्वम् । सुसाम्ने=शोभनगानवते । सनिभ्यः=सुपात्रेभ्यश्च । रयिम्= सम्पत्तिम् । आवहः=आवहसि । तथा । हे सुभगे=शोभनधने ! हे वाजिनीवति=बुद्धे ! व्यश्वेभ्यः=जितेन्द्रियेभ्य ऋषिभ्यः । त्वमपि । रयिम् । देहि ॥२८ ॥