Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 29
    ऋषिः - विश्वमना वैयश्वः देवता - वरोः सौषाम्णस्य दानस्तुतिः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिन॑: । स्थू॒रं च॒ राध॑: श॒तव॑त्स॒हस्र॑वत् ॥

    स्वर सहित पद पाठ

    आ । ना॒र्यस्य॑ । दक्षि॑णा । विऽअ॑श्वान् । ए॒तु॒ । सो॒मिनः॑ । स्थू॒रम् । च॒ । राधः॑ । श॒तऽव॑त् । स॒हस्र॑ऽवत् ॥


    स्वर रहित मन्त्र

    आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिन: । स्थूरं च राध: शतवत्सहस्रवत् ॥

    स्वर रहित पद पाठ

    आ । नार्यस्य । दक्षिणा । विऽअश्वान् । एतु । सोमिनः । स्थूरम् । च । राधः । शतऽवत् । सहस्रऽवत् ॥ ८.२४.२९

    ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 29
    अष्टक » 6; अध्याय » 2; वर्ग » 20; मन्त्र » 4

    पदार्थः -
    नार्य्यस्य=नरहितकारकस्येश्वरस्य । दक्षिणा=दानम् । सोमिनः=सोमादिलतातत्त्वज्ञानम् । व्यश्वान्=जितेन्द्रियान् । एतु=प्राप्नोतु । च=पुनः । शतवत्+सहस्रवत्= नानाविधानन्तवस्तुयुक्तम् । स्थूरम्=स्थूलं सूक्ष्मञ्च । राधः=धनम् । तानेतु ॥२९ ॥

    इस भाष्य को एडिट करें
    Top