Loading...
ऋग्वेद मण्डल - 8 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 2
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः । विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तार॑: ॥

    स्वर सहित पद पाठ

    आ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती॑न् । उ॒षसा॑ । नक्त॑म् । ओष॑धीः । विश्वे॑ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒ऽअ॒वि॒तारः॑ ॥


    स्वर रहित मन्त्र

    आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः । विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितार: ॥

    स्वर रहित पद पाठ

    आ । पशुम् । गासि । पृथिवीम् । वनस्पतीन् । उषसा । नक्तम् । ओषधीः । विश्वे । च । नः । वसवः । विश्वऽवेदसः । धीनाम् । भूत । प्रऽअवितारः ॥ ८.२७.२

    ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 2

    पदार्थः -
    वयम् । पशुं पृथिवीं वनस्पतीन् । उषासा=उषःकालम् । नक्तम् । ओषधीश्च । आगासि=समन्तादागायामः । अतः । हे वसवः=वासयितारः ! विश्ववेदसः=सर्वधनाः सर्वज्ञाना वा । हे विश्वे=सर्वेऽपि देवाः । यूयम् । नोऽस्माकम् । धीनाम्=मतीनां विचाराणां च । प्रावितारः=रक्षका वर्धकाश्च भूत=भवत ॥२ ॥

    इस भाष्य को एडिट करें
    Top