Loading...
ऋग्वेद मण्डल - 8 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 3
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - शङ्कुम्मतीबृहती स्वरः - मध्यमः

    प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः । आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥

    स्वर सहित पद पाठ

    प्र । सु । नः॒ । ए॒तु॒ । अ॒ध्व॒रः । अ॒ग्ना । दे॒वेषु॑ । पू॒र्व्यः । आ॒दि॒त्येषु॑ । प्र । वरु॑णे । धृ॒तऽव्र॑ते । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ॥


    स्वर रहित मन्त्र

    प्र सू न एत्वध्वरो३ऽग्ना देवेषु पूर्व्यः । आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥

    स्वर रहित पद पाठ

    प्र । सु । नः । एतु । अध्वरः । अग्ना । देवेषु । पूर्व्यः । आदित्येषु । प्र । वरुणे । धृतऽव्रते । मरुत्ऽसु । विश्वऽभानुषु ॥ ८.२७.३

    ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 3
    अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 3

    पदार्थः -
    हे भगवन् ! तव कृपया । नोऽस्माकम् । पूर्व्यः=पूर्णः । अध्वरः=यज्ञः । अग्ना=अग्नौ । सु=सुष्ठु । प्रैतु । देवेषु=आदित्येषु । धृतव्रते वरुणे । विश्वभानुषु= सर्वव्याप्ततेजस्केषु मरुत्सु च । प्रैतु ॥३ ॥

    इस भाष्य को एडिट करें
    Top