Loading...
ऋग्वेद मण्डल - 8 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 4
    ऋषिः - मनुर्वैवस्वतः देवता - विश्वेदेवा: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥

    स्वर सहित पद पाठ

    विश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः॑ । भुव॑न् । वृ॒धे । रि॒शाद॑सः । अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥


    स्वर रहित मन्त्र

    विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः । अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥

    स्वर रहित पद पाठ

    विश्वे । हि । स्म । मनवे । विश्वऽवेदसः । भुवन् । वृधे । रिशादसः । अरिष्टेभिः । पायुऽभिः । विश्वऽवेदसः । यन्त । नः । अवृकम् । छर्दिः ॥ ८.२७.४

    ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 4
    अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 4

    पदार्थः -
    विश्ववेदसः=सर्वधनज्ञानाः । रिशादसः=शत्रूणां विनाशकाश्च । विश्वे=सर्वे देवाः । मनवे=मनोः । वृधे=वर्धनाय । भुवन्=भवन्तु । अपि च । हे विश्ववेदसः ! अरिष्टेभिः=बाधारहितैः । पायुभिः=पालनैः सह । नः=अस्मभ्यम् । अवृकम्=चोरादिरहितं पापादिविरहितम् । छर्दिः=गृहम् । यन्त=प्रयच्छत ॥४ ॥

    इस भाष्य को एडिट करें
    Top