Loading...
ऋग्वेद मण्डल - 8 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 29/ मन्त्र 10
    ऋषिः - मनुर्वैवस्वतः कश्यपो वा मारीचः देवता - विश्वेदेवा: छन्दः - आर्चीस्वराड्गायत्री स्वरः - षड्जः

    अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ॥

    स्वर सहित पद पाठ

    अर्च॑न्तः । एके॑ । महि॑ । साम॑ । म॒न्व॒त॒ । तेन॑ । सूर्य॑म् । अ॒रो॒च॒य॒न् ॥


    स्वर रहित मन्त्र

    अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् ॥

    स्वर रहित पद पाठ

    अर्चन्तः । एके । महि । साम । मन्वत । तेन । सूर्यम् । अरोचयन् ॥ ८.२९.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 29; मन्त्र » 10
    अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 10

    पदार्थः -
    एके=सुप्रसिद्धाः । सर्वे प्राणाः । परमात्मदेवम् । अर्चयन्तः=पूजयन्तः । महि=महत् । साम=गेयवस्तु । मन्वत=मन्यन्ते=गायन्तीत्यर्थः । तेन गानेन । सूर्यम्=सूर्यमिव प्रकाशकं विवेकम् । अरोचयन्=रोचयन्ति=दीपयन्ति । सर्वे मनुष्या ईशमेवार्चन्तु, पूजयन्तु, स्तुवन्तु, प्रशंसन्तु इत्यादि शिक्षते ॥१० ॥

    इस भाष्य को एडिट करें
    Top