Loading...
ऋग्वेद मण्डल - 8 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 29/ मन्त्र 9
    ऋषिः - मनुर्वैवस्वतः कश्यपो वा मारीचः देवता - विश्वेदेवा: छन्दः - आर्चीभुरिग्गायत्री स्वरः - षड्जः

    सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥

    स्वर सहित पद पाठ

    सदः॑ । द्वा । च॒क्रा॒ते॒ इति॑ । उ॒प॒ऽमा । दि॒वि । स॒म्ऽराजा॑ । स॒र्पिर्ऽआ॑सुती॒ इति॑ स॒र्पिःऽआ॑सुती ॥


    स्वर रहित मन्त्र

    सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥

    स्वर रहित पद पाठ

    सदः । द्वा । चक्राते इति । उपऽमा । दिवि । सम्ऽराजा । सर्पिर्ऽआसुती इति सर्पिःऽआसुती ॥ ८.२९.९

    ऋग्वेद - मण्डल » 8; सूक्त » 29; मन्त्र » 9
    अष्टक » 6; अध्याय » 2; वर्ग » 36; मन्त्र » 9

    पदार्थः -
    उपमा=उपमौ=उपमानभूतौ । प्रायो बहुधा मुखेनोपमा दीयते । यद्वा । उपमीयते=ज्ञायते सर्वमाभ्यामिति उपमौ । मुखेन सर्वः परिचीयते । सम्राजा=सम्राजौ=सम्यग् विराजमानौ । पुनः । सर्पिरासुती । सर्पिर्घृतमुपलक्षणम् । सर्पींषि=घृतादीनि खाद्यानि । आसूयेते=स्वादयतो यौ तौ सर्पिरासुती । द्वा=द्वौ=मुखजिह्वानामकौ देवौ । दिवि=द्योतने स्थाने । सदः=गृहम्=निवासस्थानम् । चक्राते=कुरुतः । ईदृशौ देवौ विद्यया ज्ञातव्यौ ॥९ ॥

    इस भाष्य को एडिट करें
    Top