Loading...
ऋग्वेद मण्डल - 8 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 23
    ऋषिः - श्यावाश्वः देवता - अश्विनौ छन्दः - पुरस्ताज्योतिर्नामजगती स्वरः - निषादः

    न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

    स्वर सहित पद पाठ

    न॒मः॒ऽवा॒के । प्रऽस्थि॑ते । अ॒ध्व॒रे । न॒रा॒ । वि॒वक्ष॑णस्य । पी॒तये॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥


    स्वर रहित मन्त्र

    नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

    स्वर रहित पद पाठ

    नमःऽवाके । प्रऽस्थिते । अध्वरे । नरा । विवक्षणस्य । पीतये । आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥ ८.३५.२३

    ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 23
    अष्टक » 6; अध्याय » 3; वर्ग » 17; मन्त्र » 5

    पदार्थः -
    हे अश्विनौ ! नरा नेतारौ ! नमोवाके नमोवचने नमः शब्दस्य वाग् उच्चारणं यत्र तस्मिन् । अध्वरे यागे प्रस्थिते उपस्थिते प्रस्तुते सति । युवाम् । विवक्षणस्य प्रवहणशीलस्य सोमस्य पीतये । आगच्छतम् । शेषं पूर्ववत् ॥२३ ॥

    इस भाष्य को एडिट करें
    Top