ऋग्वेद - मण्डल 8/ सूक्त 35/ मन्त्र 24
स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
स्वर सहित पद पाठस्वाहा॑ऽकृतस्य । तृ॒म्प॒त॒म् । सु॒तस्य॑ । दे॒वौ॒ । अन्ध॑सः । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥
स्वर रहित मन्त्र
स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
स्वर रहित पद पाठस्वाहाऽकृतस्य । तृम्पतम् । सुतस्य । देवौ । अन्धसः । आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥ ८.३५.२४
ऋग्वेद - मण्डल » 8; सूक्त » 35; मन्त्र » 24
अष्टक » 6; अध्याय » 3; वर्ग » 17; मन्त्र » 6
अष्टक » 6; अध्याय » 3; वर्ग » 17; मन्त्र » 6
विषयः - N/A
पदार्थः -
हे अश्विनौ ! देवौ ! स्वाहाकृतस्य स्वाहाशब्देन पवित्रीकृतस्य सुतस्य शोधितस्य । अन्धसः ओदनस्य । तृम्पतम् ओदनेन तृप्यतम् । अत्र करणे षष्ठी । शेष पूर्ववत् ॥२४ ॥