Loading...
ऋग्वेद मण्डल - 8 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 63/ मन्त्र 3
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्र: छन्दः - विराड्गायत्री स्वरः - षड्जः

    स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ । स्तु॒षे तद॑स्य॒ पौंस्य॑म् ॥

    स्वर सहित पद पाठ

    सः । वि॒द्वाँन् । अङ्गि॑रःऽभ्यः । इन्द्रः॑ । गाः । अ॒वृ॒णो॒त् । अप॑ । स्तु॒षे । तत् । अ॒स्य॒ । पौंस्य॑म् ॥


    स्वर रहित मन्त्र

    स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप । स्तुषे तदस्य पौंस्यम् ॥

    स्वर रहित पद पाठ

    सः । विद्वाँन् । अङ्गिरःऽभ्यः । इन्द्रः । गाः । अवृणोत् । अप । स्तुषे । तत् । अस्य । पौंस्यम् ॥ ८.६३.३

    ऋग्वेद - मण्डल » 8; सूक्त » 63; मन्त्र » 3
    अष्टक » 6; अध्याय » 4; वर्ग » 42; मन्त्र » 3

    पदार्थः -
    खलु इन्द्रो विद्वान्=सर्वविदस्ति । अङ्गिरोभ्यः= प्राणसहितेभ्यो जीवेभ्यः । गाः=पृथिव्यादिलोकान् । अपावृणोत्=प्रकाशितवान् । हे मनुष्याः ! अस्य तत्पौंस्यं=वीर्य्यम् । स्तुषे=स्तवनीयमास्ते ॥३ ॥

    इस भाष्य को एडिट करें
    Top