Loading...
ऋग्वेद मण्डल - 8 के सूक्त 9 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 9/ मन्त्र 2
    ऋषिः - शशकर्णः काण्वः देवता - अश्विनौ छन्दः - गायत्री स्वरः - षड्जः

    यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑ । नृ॒म्णं तद्ध॑त्तमश्विना ॥

    स्वर सहित पद पाठ

    यत् । अ॒न्तरि॑क्षे । यत् । दि॒वि । यत् । पञ्च॑ । मानु॑षान् । अनु॑ । नृ॒म्णम् । तत् । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥


    स्वर रहित मन्त्र

    यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषाँ अनु । नृम्णं तद्धत्तमश्विना ॥

    स्वर रहित पद पाठ

    यत् । अन्तरिक्षे । यत् । दिवि । यत् । पञ्च । मानुषान् । अनु । नृम्णम् । तत् । धत्तम् । अश्विना ॥ ८.९.२

    ऋग्वेद - मण्डल » 8; सूक्त » 9; मन्त्र » 2
    अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 2

    पदार्थः -
    हे अश्विना=अश्वयुक्तौ राजानौ । अश्विनी च अश्वीचेत्यश्विनौ राज्ञी राजा चेत्यर्थः । अन्तरिक्षे=मध्यलोके । मनुष्यहितं यद्धनमस्ति । दिवि=द्योतनात्मके द्युलोके=उत्तमे सूर्य्यलोके । यद्धनमस्ति । पुनः । पञ्चसंख्याकान् मानुषान्=मनुष्यान् । अनु=मनुष्यलोके इत्यर्थः । यद्धनमस्ति । पञ्चविधा मनुष्याः सन्तीति वेदेन प्रतिपाद्यते । तत् त्रिविधम् । नृम्णम्=धनम् । इह स्वदेशे । धत्तम्=स्थापयतमापदि प्रजारक्षायै ॥२ ॥

    इस भाष्य को एडिट करें
    Top