ऋग्वेद - मण्डल 8/ सूक्त 9/ मन्त्र 3
ये वां॒ दंसां॑स्यश्विना॒ विप्रा॑सः परिमामृ॒शुः । ए॒वेत्का॒ण्वस्य॑ बोधतम् ॥
स्वर सहित पद पाठये । वा॒म् । दंसां॑सि । अ॒श्वि॒ना॒ । विप्रा॑सः । प॒रि॒ऽम॒मृ॒शुः । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ॥
स्वर रहित मन्त्र
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः । एवेत्काण्वस्य बोधतम् ॥
स्वर रहित पद पाठये । वाम् । दंसांसि । अश्विना । विप्रासः । परिऽममृशुः । एव । इत् । काण्वस्य । बोधतम् ॥ ८.९.३
ऋग्वेद - मण्डल » 8; सूक्त » 9; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 30; मन्त्र » 3
विषयः - राजकर्त्तव्यमाह ।
पदार्थः -
हे अश्विना=अश्विनौ राजानौ ! वाम्=युवयोः । दंसांसि=शुभानि कर्माणि । ये विप्रासः=विप्रा मेधाविनो जनाः । परिमामृशुः=परिमृशन्ति गायन्तीत्यर्थः । तेषां मध्ये काण्वस्य=तत्त्ववेत्तुः पुरुषस्य । एवेत्=काण्वस्यैव । बोधतम्=प्रथमं काण्वमेव स्मरतमित्यर्थः ॥३ ॥