Loading...
ऋग्वेद मण्डल - 1 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 98/ मन्त्र 2
    ऋषिः - कुत्सः आङ्गिरसः देवता - अग्निर्वैश्वानरः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश। वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥

    स्वर सहित पद पाठ

    पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ । वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥


    स्वर रहित मन्त्र

    पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश। वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥

    स्वर रहित पद पाठ

    पृष्टः। दिवि। पृष्टः। अग्निः। पृथिव्याम्। पृष्टः। विश्वाः। ओषधीः। आ। विवेश। वैश्वानरः। सहसा। पृष्टः। अग्निः। सः। नः। दिवा। सः। रिषः। पातु। नक्तम् ॥ १.९८.२

    ऋग्वेद - मण्डल » 1; सूक्त » 98; मन्त्र » 2
    अष्टक » 1; अध्याय » 7; वर्ग » 6; मन्त्र » 2

    Meaning -
    It is sanctified: sanctified as light in heaven, as heat in fire, as energy in earth, as vitality in all the herbs in which it has entered. Vaishvanara Agni, sanctified and replete with strength, energy and courage, may, we pray, protect us against hate, enmity and negativity day and night, both in the waking and in the sleeping state.

    इस भाष्य को एडिट करें
    Top