Loading...
ऋग्वेद मण्डल - 10 के सूक्त 13 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 2
    ऋषिः - विवस्वानादित्यः देवता - हविर्धाने छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां॑ भर॒न्मानु॑षा देव॒यन्त॑: । आ सी॑दतं॒ स्वमु॑ लो॒कं विदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ॥

    स्वर सहित पद पाठ

    य॒मे इ॒वेति॑ य॒मेऽइ॑व । यत॑माने॒ इति॑ । यत् । ऐत॑म् । प्र । वा॒म् । भ॒र॒न् । मानु॑षाः । दे॒व॒ऽयन्तः॑ । आ । सी॒द॒त॒म् । स्वम् । ऊँ॒ इति॑ । लो॒कम् । विदा॑ने॒ इति॑ । स्वा॒स॒स्थे इति॑ सु॒ऽआ॒स॒स्थे । भ॒व॒त॒म् । इन्द॑वे । नः॒ ॥


    स्वर रहित मन्त्र

    यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्त: । आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥

    स्वर रहित पद पाठ

    यमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम् । प्र । वाम् । भरन् । मानुषाः । देवऽयन्तः । आ । सीदतम् । स्वम् । ऊँ इति । लोकम् । विदाने इति । स्वासस्थे इति सुऽआसस्थे । भवतम् । इन्दवे । नः ॥ १०.१३.२

    ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 2
    अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 2

    Meaning -
    Living and working together like a pair of twins in this home, when you perform this yajna, then the people around dedicated to divinity would accept and honour you as a holy couple. Abide in your own beautiful place as an enlightened couple and, happy and healthy in your own joint life, live on for the peace and joy of yourselves and all of us and for self-fulfilment in the service of divinity.

    इस भाष्य को एडिट करें
    Top