ऋग्वेद - मण्डल 10/ सूक्त 13/ मन्त्र 5
स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तम् । उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ॥
स्वर सहित पद पाठस॒प्त । क्ष॒र॒न्ति॒ । शिश॑वे । म॒रुत्व॑ते । पि॒त्रे । पु॒त्रासः॑ । अपि॑ । अ॒वी॒व॒त॒न् । ऋ॒तम् । उ॒भे इति॑ । इत् । अ॒स्य॒ । उ॒भय॑स्य । रा॒ज॒तः॒ । उ॒भे इति॑ । य॒ते॒ते॒ इति॑ । उ॒भय॑स्य । पु॒ष्य॒तः॒ ॥
स्वर रहित मन्त्र
सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् । उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥
स्वर रहित पद पाठसप्त । क्षरन्ति । शिशवे । मरुत्वते । पित्रे । पुत्रासः । अपि । अवीवतन् । ऋतम् । उभे इति । इत् । अस्य । उभयस्य । राजतः । उभे इति । यतेते इति । उभयस्य । पुष्यतः ॥ १०.१३.५
ऋग्वेद - मण्डल » 10; सूक्त » 13; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 13; मन्त्र » 5
Meaning -
As children for the parent, seven poetic compositions of the Veda shower the light and bliss of eternal truth on the soul, master of pranic energies and abiding within at the heart in the body. Both thought and speech, heaven and earth inspire and elevate both divines and humans, both exercise both to rise and both strengthen and refine both orders of life, both coexist with the Law.