Loading...
ऋग्वेद मण्डल - 10 के सूक्त 160 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 160/ मन्त्र 2
    ऋषिः - पूरणो वैश्वामित्रः देवता - इन्द्र: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिर॒: श्वात्र्या॒ आ ह्व॑यन्ति । इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥

    स्वर सहित पद पाठ

    तुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊँ॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ । श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ । इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥


    स्वर रहित मन्त्र

    तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिर: श्वात्र्या आ ह्वयन्ति । इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥

    स्वर रहित पद पाठ

    तुभ्यम् । सुताः । तुभ्यम् । ऊँ इति । सोत्वासः । त्वाम् । गिरः । श्वात्र्याः । आ । ह्वयन्ति । इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥ १०.१६०.२

    ऋग्वेद - मण्डल » 10; सूक्त » 160; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 2

    Meaning -
    To you are these resources dedicated, those that are ripe and ready and those that are being prepared.$Voices of sincere devotion call on you. Indra, knowing well, loving and fully dedicated to this world programme of development, take it on here and now, protect, promote and raise the world to the heights of attainment.

    इस भाष्य को एडिट करें
    Top