ऋग्वेद - मण्डल 10/ सूक्त 25/ मन्त्र 5
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - सोमः
छन्दः - निचृदार्षीपङ्क्ति
स्वरः - पञ्चमः
तव॒ त्ये सो॑म॒ शक्ति॑भि॒र्निका॑मासो॒ व्यृ॑ण्विरे । गृत्स॑स्य॒ धीरा॑स्त॒वसो॒ वि वो॒ मदे॑ व्र॒जं गोम॑न्तम॒श्विनं॒ विव॑क्षसे ॥
स्वर सहित पद पाठतव॑ । त्ये । सो॒म॒ । शक्ति॑ऽभिः । निऽका॑मासः॑ । वि । ऋ॒ण्वि॒रे॒ । गृत्स॑स्य । धीराः॑ । त॒वसः॑ । वि । वः॒ । मदे॑ । व्र॒जम् । गोऽम॑न्तम् । अ॒श्विन॑म् । विव॑क्षसे ॥
स्वर रहित मन्त्र
तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे । गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे ॥
स्वर रहित पद पाठतव । त्ये । सोम । शक्तिऽभिः । निऽकामासः । वि । ऋण्विरे । गृत्सस्य । धीराः । तवसः । वि । वः । मदे । व्रजम् । गोऽमन्तम् । अश्विनम् । विवक्षसे ॥ १०.२५.५
ऋग्वेद - मण्डल » 10; सूक्त » 25; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 5
Meaning -
Those devotees with a balanced mind, lovers of divinity, inspired with devotion to the loved and potent Soma, with all their power of concentration in meditation reach the state of joy in your presence, O Soma, wherein they find a settled haven with enlightened mind and senses and a vibrant will here itself. O lord you are really great for all.