Loading...
ऋग्वेद मण्डल - 10 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 27/ मन्त्र 24
    ऋषिः - वसुक्र ऐन्द्रः देवता - इन्द्र: छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    सा ते॑ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै॑ता॒दृगप॑ गूहः सम॒र्ये । आ॒विः स्व॑: कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ॥

    स्वर सहित पद पाठ

    सा । ते॒ । जी॒वातुः॑ । उ॒त । तस्य॑ । वि॒द्धि॒ । मा । स्म॒ । ए॒ता॒दृक् । अप॑ । गू॒हः॒ । स॒म॒र्ये । आ॒विः । स्वरिति॑ स्वः॑ । कृ॒णु॒ते । गूह॑ते । बु॒सम् । सः । पा॒दुः । अ॒स्य॒ । निः॒ऽनिजः॑ । न । मु॒च्य॒ते॒ ॥


    स्वर रहित मन्त्र

    सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये । आविः स्व: कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥

    स्वर रहित पद पाठ

    सा । ते । जीवातुः । उत । तस्य । विद्धि । मा । स्म । एतादृक् । अप । गूहः । समर्ये । आविः । स्व१रिति स्वः । कृणुते । गूहते । बुसम् । सः । पादुः । अस्य । निःऽनिजः । न । मुच्यते ॥ १०.२७.२४

    ऋग्वेद - मण्डल » 10; सूक्त » 27; मन्त्र » 24
    अष्टक » 7; अध्याय » 7; वर्ग » 19; मन्त्र » 4

    Meaning -
    That, O man, is your life line, the trinity of sun, air and water, Know it, and know that divine Indra. It’s all his. In the serious holy business of living, forget it not, nor let life slip away. Indra creates and opens out the bliss of life, consumes the waste to create further, and this evolutionary cyclic process of the life giver never ends, it continues.

    इस भाष्य को एडिट करें
    Top