ऋग्वेद - मण्डल 10/ सूक्त 35/ मन्त्र 13
ऋषिः - लुशो धानाकः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नय॒: समि॑द्धाः । विश्वे॑ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे ॥
स्वर सहित पद पाठविश्वे॑ । अ॒द्य । म॒रुतः॑ । विश्वे॑ । ऊ॒ती । विश्वे॑ । भ॒व॒न्तु॒ । अ॒ग्नयः॑ । सम्ऽइ॑द्धाः । विश्वे॑ । नः॒ । दे॒वाः । अ॒व॒सा । आ । ग॒म॒न्तु॒ । विश्व॑म् । अ॒स्तु॒ । द्रवि॑णम् । वाजः॑ । अ॒स्मे इति॑ ॥
स्वर रहित मन्त्र
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नय: समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे ॥
स्वर रहित पद पाठविश्वे । अद्य । मरुतः । विश्वे । ऊती । विश्वे । भवन्तु । अग्नयः । सम्ऽइद्धाः । विश्वे । नः । देवाः । अवसा । आ । गमन्तु । विश्वम् । अस्तु । द्रविणम् । वाजः । अस्मे इति ॥ १०.३५.१३
ऋग्वेद - मण्डल » 10; सूक्त » 35; मन्त्र » 13
अष्टक » 7; अध्याय » 8; वर्ग » 8; मन्त्र » 3
अष्टक » 7; अध्याय » 8; वर्ग » 8; मन्त्र » 3
Meaning -
Today in this life of ours, may all the winds and pranic energies and all lighted fires of the world bring us all protections and promotions. May all divine powers of nature and humanity in the world come with all protection, power and progress. May all wealth, honour and excellence of the world, all speed, success and victory be our common human heritage, good fortune and universal victory.