ऋग्वेद - मण्डल 10/ सूक्त 47/ मन्त्र 3
ऋषिः - सप्तगुः
देवता - इन्द्रो वैकुण्ठः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
सु॒ब्रह्मा॑णं दे॒वव॑न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र । श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दा॑: ॥
स्वर सहित पद पाठसु॒ऽब्रह्मा॑णम् । दे॒वऽव॑न्तम् । बृ॒हन्त॑म् । उ॒रुम् । ग॒भी॒रम् । पृ॒थुऽबु॑ध्नम् । इ॒न्द्र॒ । श्रु॒तऽऋ॑षिम् । उ॒ग्रम् । अ॒भि॒मा॒ति॒ऽसह॑म् । अ॒स्मभ्य॑म् । चि॒त्रम् । वृष॑णम् । र॒यिम् । दाः॒ ॥
स्वर रहित मन्त्र
सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र । श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दा: ॥
स्वर रहित पद पाठसुऽब्रह्माणम् । देवऽवन्तम् । बृहन्तम् । उरुम् । गभीरम् । पृथुऽबुध्नम् । इन्द्र । श्रुतऽऋषिम् । उग्रम् । अभिमातिऽसहम् । अस्मभ्यम् । चित्रम् । वृषणम् । रयिम् । दाः ॥ १०.४७.३
ऋग्वेद - मण्डल » 10; सूक्त » 47; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 3
अष्टक » 8; अध्याय » 1; वर्ग » 3; मन्त्र » 3
Meaning -
We know you, Indra, lord of divine speech, highest lover of divinities, greatest, boundless, deepest, foundation of the expansive universe, exalted among seers and sages, blazing lustrous, destroyer of opponents. Pray, bear and bring us abundant and wondrous wealth of the world.