ऋग्वेद - मण्डल 10/ सूक्त 5/ मन्त्र 3
ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती । विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्त॑: ॥
स्वर सहित पद पाठऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ । विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥
स्वर रहित मन्त्र
ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती । विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्त: ॥
स्वर रहित पद पाठऋतयिनी इत्यृतऽयिनी । मायिनी इति । सम् । दधाते इति । मित्वा । शिशुम् । जज्ञतुः । वर्धयन्ती इति । विश्वस्य । नाभिम् । चरतः । ध्रुवस्य । कवेः । चित् । तन्तुम् । मनसा । विऽयन्तः ॥ १०.५.३
ऋग्वेद - मण्डल » 10; सूक्त » 5; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 33; मन्त्र » 3
अष्टक » 7; अध्याय » 5; वर्ग » 33; मन्त्र » 3
Meaning -
The forces of law and change and the forces of form and intelligence evolving things together in measure of form and time create every new form as a lovely baby and thus, with the mind of the cosmic seer, designer and maker, extend the genetic thread of Agni, the centre seed and centre hold of the entire world of moving and non-moving versions of cosmic reality.