ऋग्वेद - मण्डल 10/ सूक्त 8/ मन्त्र 3
ऋषिः - त्रिशिरास्त्वाष्ट्रः
देवता - अग्निः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्ण॑: । अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषन्त ॥
स्वर सहित पद पाठआ । यः । मू॒र्धान॑म् । पि॒त्रोः । अर॑ब्ध । नि । अ॒ध्व॒रे । द॒धि॒रे॒ । सूरः॑ । अर्णः॑ । अस्य॑ । पत्म॑न् । अरु॑षीः । अश्व॑ऽबुध्नाः । ऋ॒तस्य॑ । योनौ॑ । त॒न्वः॑ । जु॒ष॒न्त॒ ॥
स्वर रहित मन्त्र
आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्ण: । अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥
स्वर रहित पद पाठआ । यः । मूर्धानम् । पित्रोः । अरब्ध । नि । अध्वरे । दधिरे । सूरः । अर्णः । अस्य । पत्मन् । अरुषीः । अश्वऽबुध्नाः । ऋतस्य । योनौ । तन्वः । जुषन्त ॥ १०.८.३
ऋग्वेद - मण्डल » 10; सूक्त » 8; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 3; मन्त्र » 3
Meaning -
In the cosmic yajna of motherly earth and paternal heaven, Agni, the sun, enlightens the top regions, in the middle regions the oceanic vapours and vibrant winds hold it as electric energy, and in its lower paths of radiation on earth on the yajna vedi all physical forms of existence join its bright flames and radiations and benefit from it.